________________
[४४]
अघततिः सघना प्रखरामिता, तव नुतेरितिमीश ! तरामिता । वियति पूर्णतया ह्यपि वा ततः, स लय माशु घनोऽयति वाततः ।। ईश! सघना प्रखरा अमिता अघततिः तव नुतेः तराम् इतिम् इता | वियति पूर्णतया अपि ततः स घनः वाततः आशु लयं अयति । वा (निश्चयेन ) !
अघततिरिति - हे ईश ! सघना निविडा, प्रखरातितीक्ष्णा, अमिता अपरिमाणा, अघततिः पापपङ्क्तिः तव भवतः नुतेः स्तवनात् तराम् सातिशयरूपेण इतिं विनाशं इता गता प्राप्ता । वियति व्योम्नि 'खं विहायो वियद्व्योमगगनाकाशमम्बरं ' इति धनञ्जयः । पूर्णतयापि सामस्त्येनापि ततो विस्तृतः स प्रसिद्धो घनो मेघो वाततो वायोः आशु शीघ्रं वा यथा 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये' इत्यमरः । लयं विनाशं । अयति गच्छति । 'इटकिटकटी गतौ' इत्यत्र प्रश्लिष्टस्य भौवादिकस्य 'इ' धातोः परस्मैपदप्रयोगः । । ४४ । ।
अर्थ - हे ईश ! सघन, अतितीक्ष्ण तथा अपरिमित पापपङ्क्ति आपके स्तवन से नाश को प्राप्त हो गई है। जैसे कि आकाश में पूर्णरूप से विस्तृत मेघ भी वायु से शीघ्र ही विनाश को प्राप्त हो जाता है ||४४||
[४५]
चरणयुग्ममिदं तव मानसः, सनखमौक्तिक एव विमानस !! भृशमहं विचरामि हि हंसक! यदिह तत्तटके मुनिहंसकः । ।
हे हंसक! हे विमानस ! तव इदम् चरणयुग्मम् सनख - मौक्तिक: मानसः एव (अस्ति ) | यत् (यस्मात् ) तत्-तटके इह अहं मुनि हंसकः हि भृशं विचरामि ।
चरणेति - हे विमानस! विगतं मानसं भावमनो यस्य तत्सम्बुद्धौ । हे हंसक! हंस एव हंसकः तत्सम्बुद्धौ । हे आत्मरूप ! 'हंसः पक्ष्यात्मसूर्येषु' इत्यमरः । सनखमौक्तिकं नखान्येव मौक्तिकानि नखमौक्तिकानि तैः सहितं । इदमेतत तव भवतः चरणयुग्मं पादयुगलमेव मानसो मानससरोऽस्ति । हि निश्चयेन यद् यस्मात् अह मुनिहंसको मुनिरेव हंसको मुनिमरालः । इहात्र तत्तटके तस्य चरणयुग्ममानससरोवरस्य तटके तीरे भृशमत्यर्थं विचरामि विहरामि ।। ४५ ।।
अर्थ - हे विमानस! हे आत्मरूपहंस ! नखरूप मोतियों से सहित आपका यह चरण युगल ही मानसरोवर है । इसीलिये तो उसके इस तट पर मैं मुनिरूपी हंस अत्यधिक विचरता हूँ।
भावार्थ - आपके चरणयुगल के समीप विचरण करता हूं ||४५ ||
( ६६ )