________________
[३७] सरसि ते स्तवने मम साधुता, शुचिमिता स्नपिला सहसा धुता ।
भुवि विभो! यदिदं मम चेतनं, स्तवनभाग्घि सतां द्युतिकेतनम् ।। हे विभो! ते स्तवने सरसि मम साधुता शुचिम् इता स्नपिता सहसा धुता (च) भुवि यत् (यस्मात्) इदम् मम चेतनम् द्युतिकेतनम् सताम् स्तवनभाक् हि (भूतं)।
सरसीति - हे विभो! हे नाथ! ते तव स्तवने सरसि स्तवनसरोवर इति यावत् मम स्तोतुः साधुता साधोर्भावः साधुता श्रमणता शुचिं पवित्रतां इता प्राप्ता, स्नपिता कृतस्नाना सहसा झटिति धुता प्रक्षालिता। भवत्स्तवनं विधाय मे श्रमणता पवित्रता जातेति भावः। भुवि पृथिव्यां यत् यस्मात्कारणात् इदं मम स्तोतुः चेतनं द्युति-केतनं केवलज्ञानाधारभूतं तस्मात् हि निश्चयेन सतां साधूनां स्तवनभाग् स्तुतिपात्रं भूतं जातं वा ।। ३७।।
अर्थ - हे प्रभो! आपके स्तवनरूप सरोवर में मेरी श्रमणता – मेरी साधुवृत्ति पवित्रता को प्राप्त है, नहलायी गई है और शीघ्र ही धुल चुकी है- उज्ज्वल हो चुकी है। यतश्च मेरा यह चैतन्यभाव केवलज्ञानरूप ज्योति का घर है, अतः निश्चय से सत्पुरुषों के स्तवन को प्राप्त हुआ है।
__भावार्थ - वीतराग सर्वज्ञ जिनेन्द्र के स्तवन से ज्ञान में इतनी पवित्रता आती हैवीतरागता आती है कि वह ज्ञान केवलज्ञान रूप हो जाता है और तब वह गणधरादि सत्पुरुषों के स्तवन का आधार बन जाता है ।।३७।।
[३८] असि सदात्मनि वेति मुनीरतः, परम शीतलको हिमनीरतः ।
अनलतो निजतां प्रविहायतद्दहति नाज विधेर्विधिहा यतः ।। हे अज! (त्वम्) सदा आत्मनि रतः असि वा (निश्चयेन) इति मुनिः (असि) हिम नीरतः परम शीतलकः (असि) तत् (नीरम्) अनलतः निजतां प्रविहाय दहति (किन्तु त्वीयतः विधिहा विधेः (कर्मणः) न (दहसि)। ___असीति - हे अज! जन्मातीत! त्वं सदा शश्वत् आत्मनि स्वस्वरूपे रतो लीनः असि वाथवा इति हेतोरात्मनिरतत्वादित्यर्थः मुनिरसि ज्ञानविज्ञानसंपन्नोऽसि हिमनीरतः तुहिनजलात् परमशीतलोऽतिशीतलोऽसि स्वार्थे कः। अथवा परमशीतलः क आत्मा यस्य तथाभूतोऽसि । तद् जलं अनलतोऽग्नेः निजतां स्वकीयशीतलस्वभावतां प्रविहाय त्यक्त्वा दहति दाहं करोति। यतः कारणात् त्वं विधिहा विधिं कर्म हन्तीति विधिहा असि अतस्त्वं विधेः कर्मणो न दहसि ।।३८।।
अर्थ - हे अज! हे जन्मातीतजिनेन्द्र! आप सदा आत्मस्वरूप में रत-लीन हो अथवा निश्चय से मुनि हो। बर्फ के पानी से अत्यधिक शीतल हो। वह पानी अग्नि से
(६२: