________________
(९१) मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ५५६ ।। कवि-प्रशंसा ।
ते केचिदस्खलितबन्धनवप्रबन्धसन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति,
कर्णे कृतैव भणितिर्मधुरा सुधेव ।। ५५७ ॥ एकः श्लोकवरो रसौषमधुरो हृद्यो वरं सत्कवेनैवेष्टः कुकवेः प्रलापबहुला कृत्स्नः प्रबन्धोऽपि वा। वक्रोक्त्या वलितः सहासरमसः पौराङ्गनाविभ्रमो, हर्षोत्कर्षकरो यथा नहि तथा ग्रामीणवध्वारतम् ॥५५८॥ किं कवेस्तस्य काव्येन, किं काण्डेन धनुष्मता । परस्य हृदये लग्नं, न घूर्णयति यच्छिरः ॥५५९ ॥ बचन कैसा बोलना चाहिये ।
पिपासुता शान्तिमुपैति वारिजा, न जातु दुग्धान्मधुनोऽधिकादपि । गुरोगिरः पल्लवनाऽर्थलाघवे,
मितं च सारं च वचो हि वाग्मिता ॥ ५६० ॥ यदि स्वभावान्मनोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः । प्रथाऽवदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः।। महाजनाचारपरम्परेडशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ।