________________
( २८ )
श्री सप्त स्मरणादि नित्यस्मरण.
रक्षेद्, हृदयं श्रीसुशीतलः ॥ श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयम् ||१४|| अंगुलीर्विमलो रक्षे- दनन्तोऽसौ स्तनावपि ॥ सुधर्मोऽप्युदरास्थीनि श्रीशान्तिर्नाभिमंडलं ॥ १५ ॥ श्री कुंथुर्गुकं रक्षे- दरो रोमकटीतटं || मल्लरुरू पृष्ठिवंशं, जंघे च मुनिसुव्रतः ।। १६ ।। पादांगुलीर्नमी रक्षेत्, श्रीनेमि - श्ररणद्वयम् ॥ श्रीपार्श्वनाथः सर्वाङ्ग, वर्द्धमानचिदात्मकम् || १७ || पृथिवी जलतेजस्क- वाय्वाकाशमयं जगत् ॥ रचेदशेषपापेभ्यो, वीतरागो निरंजनः ॥ १३ ॥ राजद्वारे श्मशाने वा, संग्रामे शत्रुसंकटे ॥ व्याघ्र चौरानिसर्पादि-भूतप्रेतभयाश्रिते ।। १६ ।। अकाले मरणे प्राप्ते, दारिद्र्यापत्समाश्चिते ॥ पुत्रत्वे महादोषे, मूर्खत्वे रोगपीडिते ।। २० ।। डाकिनीशाकिनीग्रस्ते, महाग्रहगणार्दिते ॥ नद्युत्तारेऽध्ववैषम्ये, व्यसने चापदि स्मरेत् ॥ २१ ॥ प्रातरेव समुत्थाय यः स्मरेजिनपंजरम् । तस्य किंचिद्भयं नास्ति, लभते सुखसंपदम् ॥ २२ ॥ जिनपंजरनामेदं यः स्मरत्यनुवासरं ॥ कमलप्रभराजेन्द्र-श्रियं स लभते नरः || २३ || प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतज्जिनपंजराख्यम् || आसादयेत्स कम लप्रभाख्यां, लक्ष्मीं मनोवांछित पूरणाय ।। २४ ।। श्रीरुद्रपलीवरेण्यगच्छे, देवप्रभाचार्यपदाब्जहंसः ॥ वादीन्द्रचूडामणिरेष जैनो, जीयाद् गुरुः श्रीकमल प्रभाख्यः ॥ २५ ॥