________________
(१६८) मातरं पितरं पुत्रं भ्रातरं बान्धवानपि । लोभाविष्टो नरो हन्ति स्वामिनं वा सुहृत्तमम् ॥ ११५० ॥ निर्विषेणापि सर्पण कर्तव्या महती फटा। विषं भवतु वा मा वा फटाटोपो भयङ्करः ॥११५१ ॥ नष्टं नैव मृतं चैव नानुशोचन्ति पण्डिताः । पण्डितानां जडानां च विशेषोऽयमतः स्मृतः ॥११५२ ॥ धनिकः श्रोत्रियो राजा नदी वैद्यस्तथैव च । . पञ्च यत्र न विद्यन्ते मा तत्र दिवसं वस ॥११५३ ॥ ऋणशेषोऽग्निशषश्च शत्रुशेषस्तथैव च। पुनः पुनः प्रवर्तन्ते तस्माछेषं विनाशय ॥११५४ ॥ सर्वनाशे समुत्पन्ने ह्यधं त्यजति पण्डितः। अर्धेन कुरुते कार्य सर्वनाशः सुदुःसहः ॥११५५ ॥ षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।। निद्रा तन्द्रा भयं क्रोध श्रालस्यं दीर्घसूत्रता ॥ ११५६ ॥ विद्या विनयोपेता, हरति न चेतांसि कस्य मनुजस्य । काश्चनमणिसंयोगो, नो जनयति कस्य लोचनानन्दम् ।।११५७ इच्छति शती सहस्र, ससहस्रः कोटिमीहते कर्तुम् । कोटियुतोऽपि नृपत्वं, नृपोऽपि बत चक्रवर्तित्वम् ॥ ११५८ ॥ अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं
तदपि न मुश्चत्याशापिण्डम् ॥११५६ ।।