SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 22 Śrāvakabhūmi पत्तितः कृतकुशलो भवति । कृतभाष्यः कृतविद्यः । इयमुच्यते। स्व [ 6 ] परसमयज्ञयता [ परसमयज्ञता ]। वाक्कारणसम्पन्नता कतमा । यथापीहैकत्यः शब्देन वक्ता भवति । नापशब्दैः । शब्दः कतमः [। ] पञ्चभिर्गुणैर्युक्तो वेदितव्यः। अग्राम्यो भवति । लघुर्भवति । तेजस्वी भवति । सिद्धो भवति । स्वर्थश्च भवति । कथमग्राम्यो भवति । कुदेशराष्ट्रकुजनपदभाषावर्जनतया । कथं लघुर्भवति । लोकप्रतीत-युक्तत [7] रभाषाप्रयुक्ततया । कथमोजस्वी भवति । यस्यार्थे कथा विप्रकृता भवति । तस्यार्थस्य सिद्धये सुप्रयुक्तबलवत्तया [1] कथं सम्बन्धो [ सिद्धो ] भवति । पौर्वापर्येण धर्मार्थविशिष्टतया [1] कथं स्वर्थो भवति । अस्त्युदयं निःश्रेयसं चारभ्याविपर्यस्ततया [1]. तच्चैवं शब्दवादिनः नवभिराकारैः सम्पन्नम्वा [क् ] करणं वेदितव्यम् । अनाकुलं [8] असंरब्धम् । गमकं पितं [ ? ]। अर्थयुक्तं कालेन स्थिरं दीप्तं प्रबन्धं द्धं ] च । तदेतत्सर्वमभिसमस्य वाक्करणसम्पदित्युच्यते । इयमुच्यते वाक्करणसम्पत् ।। वैशारधं कतमत् । यथापीहैकत्यो बहुनैकायिकायामपि पर्षदि विचित्रनैकायिकायामपि उदार [ 2B-10 ] [ 1] नैकायिकायामपि अनवष्ट [ द्य] नैकायिकायामपि सभ्यनकायिका[ या ]मपि []] [ अत्रान्तरे अपाण्डुमुखः ] । अलीनचित्तः। अदीनचित्तः असंस्विन्नगात्र[]भग्नपराजितः परापृष्ठीकृतो निगृहीतः तस्मात्कथात्यागो निग्रहस्थानमित्युच्यते। कथासादः कतमः [1] यथापि तद्वादी परवादिनाभिभूतः । अन्येनान्यं प्रतिसरति । बहिर्धा वा [2] कथामुपनयति । कोपश्च द्वेषञ्च मानं च म्रक्षं चाघात• चाक्षान्ति चाप्रत्ययञ्च प्राविष्करोति । तूष्णीभूतो वा भवति मद्गुभूतः [1] स्रस्तस्कन्धः । अधोमुखः प्रध्वान [प्रध्वस्त ] परमः । । निष्प्रतिभानः [1] क्रथमन्येनान्यं प्रतिसरति । पूर्विकां प्रतिज्ञ[1]मुत्सृत्य [7] न्यां प्रतिज्ञ [T] मालम्बते । पूर्वकं हेतुमुदाहरणं । सारूप्य नै [ वै] रूप्यं प्रत्यक्षमनुमानमाप्तागममुत्सृज्यान्यमाग[3]ममालम्बते । कथम्ब [ कथं ब ]हिर्धा कथामुपनयति । विप्रकृतां कथामुत्सृज्य या अन्नकथा, पानकथा, राजकथा चौ [ चौ] रकथा, वीथीकथा, वेश्याकथा-इत्येवंभागीयाः कथा विप्रकृता याः [ या ] कथा बहिर्धा कथेत्युच्यते । तामुपनयति । अतिक्रमोत्तरवाचं कथं को प्राविष्करोति । पारुष्यासभ्यवादेन प्रतिवादिनमवसाद[4]यति । कथं द्वेषं प्राविष्करोति । प्रतिकर्तव्यतावादेन प्रतिवादिनमभियोजयति ।
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy