________________
Appendix—I
5
त्वेन वा प्रवर्त्तन्ते तेषां प्रत्यात्मं सन्ताननानात्वेन नानात्वमवतारनाना [त्वेन नाना ] 29 त्वं च देश्यते । तस्य बीजस्य तेभ्यः षडायतनेभ्यः पृथक्त्वेन नानात्वलक्षणं नास्ति । अनादिकालात् परम्परया समुदागतानां धर्मतया समुपात्तानां षडायतनानामीदृग्भूतायास्तस्या अवस्थाया गोत्रं धातुः स्वभावश्च इति संज्ञा प्रज्ञप्ति [र्व्यवहारः ] 129 तस्मात्तदेव एकमन्तानाप्त" मित्युच्यते । 30
यदि गोत्रस्थाः पुद्गलाः परिनिर्वाणधर्म्मका भवन्ति 181 अगोत्रस्थाश्च दृश्यन्ते । करमात् परिनिर्वाणधर्म्मकाः पूर्वान्ताच्चिरेण संसरन्तो न परिनिर्वृता [इति ] 27 चेद् आह । चतुभ्र्यो हेतुभ्यो न परिनिर्वृताः । कतमेभ्यश्चतुर्भ्यः अक्षणोपपन्नत्वात् प्रमत्तदोषत्वान्, मिथ्योपपन्नत्वादावृतदोषत्वाच्चेति ।
तंत्र कतमदक्षणोपपन्नत्वम् । यत्र चतुष्कुलेषु सज्जनैः सम्यग्गतैः सत्पुरुषैर्न गन्तव्यम् । कान्तारमनुष्येषु, चौरेषु, म्लेच्छेषु । [ तत्रो ] पपन्ना [ ये ] 29 ते अक्षणो
पपन्नाः ।
.34
प्रमत्तः कतमः । आह । यत्र चतुर्षु कुलेषु गन्तव्ये मध्यदेशे अचौरमनुष्येष्त्रम्लेच्छेषु उपपन्नोऽपि उपपन्नोऽपि कामेष्वधिसज्जते परिभुङ्क्ते [च कामान्] परिजानाति स प्रमत्त इति कथ्यते ।
मिथ्योपपन्नत्वं कतमत् । आह । ईदृशो मध्येषु मनुष्येषूपपन्नपर्यन्तो विकसितोऽपि तीर्थिक दर्शनयुक्तो भूत्वा दानं न भवतीति प्रवृत्त्या, इतो भवान्तरं न ज्ञायत इति न भवतीति पर्यन्तेन विस्तरेण पश्यति कथयति च । 41 तत्तीर्थिकदर्शनमपि बुद्धानामनुत्पादे सद्धर्मद्रष्टृकल्याणमित्राणामभावे प्राप्यते । तन्मिथ्योपपन्नत्वमिति कथ्यते ।
सज्जनैः सम्यग्गतैः सत्पुरुषैः सम्भोगसम्पन्नेषु उच्चकुलेषु [कामेषु चा] दीनवं न
29. Tib. omits this.
30. Hereafter W adds यावच्त्र तद्वीजं षडायतनाद्बहिः स्थितं भवति न तावद् भेदलक्षणानि धारयति
..... |
Tib. in-la.
31.
32.
Tib-ta na.
33. Tib. omits
34. W. suggests प्रमत्तदोषत्वम् ।
35. Tib. चत्वारि कुलानि ।
36. May also be गन्तव्यस्य मध्यदेशस्य ।
37. Tib. उपपन्ना अपि ।
38. Tib. om its this.
39. Tib. परिज्ञायते ।
40. Tib. विकसितेऽपि ।
41, Tib. पश्यन्ति कथयन्ति च ।