SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आदर्श-ज्ञान-प्रथम-खण्ड मंगलाचरणा ( गुरुस्तुत्यष्टकम् ) दयामयेनैव विलोकनेन, लोकान् पुनानं सकलान् जगत्याम् । लग्नं च नित्यं परकीयकार्ये, गुरुं नमामि प्रथमं महान्तम् ॥ १ ॥ धर्मप्रचारक महाविभूतिं तपः परं लोकसुखेन तृप्तम् (?) जितेन्द्रियं मानमदादिद्दीनं गुरुं नमामि प्रथमं महान्तम् ॥ २ ॥ यो ज्ञानमूर्तिर्व्रतसन्ततीनां प्रसूतिगलोकमयः प्रदीपः । प्रकाशते यो हृदि मन्दिरे च, सुरद्रुमो भक्तखगाश्रयाय ॥ ३ ॥ क्षमामयो ध्यानपरो विपश्चित्, धृतो न रागो हृदि येन कश्चित् । पद्भ्याम् विहारी वचसामृतेन कल्याणकारी सुपरिश्रमेण ॥ ४ ॥ क्रोधस्य लोभस्य जये सुसूरिः, महाव्रताचारपरः कषाये । निवृत्तचेतास्तु वशी सुशीलः, सत्यप्रियो योगनिविष्टभावः ॥ ५ ॥ साहित्य सेवाध्यवसायशीलः, क्रियासु निष्णात मतिर्मतो यः । ऐतिह चतत्वस्य सुविज्ञ एकः, सौजन्यसत्कर्म सुपाटवेऽपि ॥ ६ ॥ विद्याः समप्राः सुकरांगलीषु, नृत्यन्ति नर्तक्य इवेह यस्य । वाचं पुनीमो महिमानमुक्त्वा, नमामि पादौ च गुरोस्तुतस्य ॥ ७ ॥ आनन्दकन्दप्राप्तयर्थे त्यक्त्वार्थे तु निरर्थकम् । "ज्ञानसुन्दर" नामानं वन्देऽहम् प्रवरं गुरुम् ॥ ८ ॥ mininę
SR No.002447
Book TitleAadarsh Gyan
Original Sutra AuthorN/A
AuthorRatnaprabhakar Gyan Pushpmala
PublisherRatnaprabhakar Gyan Pushpmala
Publication Year1940
Total Pages734
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy