SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [ ४२ ] ( पञ्जिका ) अद्वितीयतेजश्चण्डीकृततीव्ररुचां तपागच्छाधिपतीनां सर्वतन्त्रस्वतन्त्राणां सूरिचक्रचक्रवर्तिनां तीर्थोद्धारकरणैकनिष्णातानां समाराधितपञ्चप्रस्थानमयसूरिमन्त्राणां जगद्गुरूणां बाल ब्रह्मचारिणां श्रीमतां भट्टारकाचार्यमहाराजाधिराजश्रीविजयनेमिसूरीश्वरमहाराजानामनुकम्पाया लेशमवाप्य श्रीसिद्धहेमचन्द्रशब्दानुशासनमभिरमयितुं चित्रबन्धात्मकःखण्डकाव्यग्रन्थो यः समारब्धः स खल्वयं लक्षणविलासाख्यः शास्त्रविशारद-कविरत्न-पीयूषपाणि-परमप्रभावक-पूज्यपादाचार्यवर्यश्रीविजयामृतसूरीश्वरमहाराजानां वयोवृद्ध-विनयनिधान-पन्न्यासप्रवरश्रीपुण्यविजयजिद्गणिवाभिधानानाश्च गुरूणामनुभावात् पूर्णतां प्राप्तः । अत्र विश्वे सर्वोत्कर्षेण वर्ततामिति ॥१०४॥ [ अनुष्टुप् ] अब्धि -चन्द्र'-नमो -नेत्र-मिते वैक्रमवत्सरे । मधौ सित-नवम्यार्कि-वारेऽयं सिद्धिमागमत् ॥१०५।। ( पञ्जिका ) . श्रीविक्रमार्कसंवत्चतुर्दशाधिकसहस्रद्वये चैत्रे मासि सिते पक्षे नवम्यां तिथौ शनैश्चरवासरे अयं प्रन्थः पूर्णोऽभवत् ॥१५॥ . . . श्रीलक्षणविलासस्य स्वोपज्ञस्य कनीयसी । . विहिताऽभ्यर्हिता जीयात् पञ्जिकाऽर्थमहीयसी ॥ 卐 .
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy