________________
[ ३९ ] तादृशं सूत्रं किमस्ति तत् तद्धितं यदि त्वया परिशीलितं तदाऽभीप्सितं सत्वरं वद ॥९६।। .
[ शार्दूलविक्रीडितम् ] आदेशो भवतीह भिमतः सर्वादितः पुंमि यस्तं नवृत्तिवृतं विधाय विदितं सूत्र समुन्नीयताम् । यद्वदंनिनदो ङिना सह गतो यद्रपरूपः स्थितस्तद्वै सूत्रमुदात्तचित्तविधृतं कृत्वा न विस्मयंताम् ।९७।
( पञ्जिका ) (१) सम्येकवचनस्य ङिप्रत्ययस्य सर्वादिशब्दतः पुंसि य आदेशो जायते तस्य खलु ना समासं विधाय यत् स्यात्तदेवात्र विवक्षितं सूत्रमस्ति, विचार्यतां किमिति ? (२) अथवा इदंशब्दस्य डिप्रत्यये यद्रूपं भवेत् तदेवात्र सूत्रम् तत् सम्यग् मनसि धृत्वा नहि विस्मरणीयमिति ॥१७॥
[ द्रुतविलम्बितम् ] षयुगले प्रथमं प्रथमस्वरं, परमतष्ठयुतं तत आस्वरः । तवरमञ्च षडक्षरमत्र यद्, भवति सूत्रमिदं वद सूत्रविद् ॥९८॥
(पञ्जिका ) . षयुग्मकं प्रथमं वर्तते, तत्र प्रथमं प्रथमस्वराकारेण परिणतमास्ते । द्वितीयं ठकारान्वितं वर्तते तत आकारोऽस्ति । अन्ते तु तकारो विलसति एवञ्च षड्वर्णात्मकं सूत्रं विविच्य वाच्यं सूत्रविदा वयेति।।९८।।
__ [ अनुष्टुप् ] एकत्वे पञ्चमीषष्ठयोः, ऋदन्तः किमु सोदरः । सप्तम्येकवचः स्तोत्रं, स्त्रीत्वे किं सूत्रमुच्चर ॥९९॥ .