SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [ ३४ ] ( पञ्जिका ) 'पारावारे' इत्येतस्मिन् आद्योपान्त्ययोर्हस्वविधानाद् यद्भवेत् तत् सूत्रं व्याकरणेऽत्र पचमाध्यायचतुर्थपादे कथितमस्ति चेत्त्वया ज्ञायते तत् शोध्यताम् ||२३|| [ प्रमाणिका ] द्वितीयपाऽद्वितीयया गृहस्थकमे सङ्गतम् । द्विरुक्तमत्र सूत्रत्रि - द्विविच्य सूत्रमुच्यताम् ॥ ८४ ॥ ( पञ्जिका ) अनन्यया सहधर्मचारिण्या गार्हस्थ्यं समीचीनं भवति, ताहशार्थपरप्रथमार्धसूक्ते सूत्रं द्विवारं कथितमस्ति भोः सूत्रज्ञ ! विवेकं विधाय कथ्यताम् ||८४|| तत् सूत्रं किम् ? [ मन्दाक्रान्ता ] अन्तस्थानां चरमपrat किं ङसि प्रत्ययान्तौ मिष्टः स्वानः प्रभवति कुतः स्त्री शिशूनां मनोहृत् । किं विध्यर्थेऽदनकरणतो वादिमं धातुरूपं, सूत्रं सम्यक् स्मरणपदवीं स्थाप्यतामाप्यतां वा ॥ ८५ ॥ ( पञ्जिका ) ( ) अन्तिम प्रथमः क्ष एवन्तस्थानां पञ्चम्येकवचनप्रत्ययान्तौ किम् ? (२) अबलानां बालानाञ्च मनोहारी मधुगे निनादः कुतः प्रादुर्भवति ? (३) भक्षणार्थकस्य धातोर्विध्यर्थतृतीय पुरुषैकवचनं वाप्रिमं किम् ? उत्त. प्रश्नत्रयार्थं सूत्रं स्मरणविषयीक्रियतां सूत्रच प्राप्यतामिति ||८५|| [ शार्दूलविक्रीडितम् ] उचार्यात् किमु नामतो ङसिङसो रूपं पुरो वर्तते, कस्मिन् कोमलता युतंऽपि पशवो यान्ति द्रुतं वश्यताम् ।
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy