SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ [ १६ ] [ मन्दाक्रान्ता ] - प्रातःकाले प्रसरति रविर्दीप्तिमान कुत्र भागे; सायंकाले पुनरपि भवेत् किश्च तस्यापरस्याम् । श्रेयःकाले वितरति पदं कीदृशं कर्मनाशः, सूत्रं हैमं प्रतिवद यदि व्याकृती व्याकृतिस्ते ॥३८॥ . ( पञ्जिका ) (१) प्रभातसमये रश्मिसहस्रपरिकरितः सूर्यः क भागे प्रसारमादधाति । (२) सायंसमये सूर्यस्य पुनरपि पश्चिमायां दिशि किं स्यात् ? (३) निःश्रेयससमये सकलकर्मविध्वंसः कीदृक् स्थानं ददाति । यदि तव व्याकरणविषये वैशयं वर्तते तदा हैमलक्षणोपलक्षितं सूत्रं प्रत्याचष्टाम् ॥३८॥ [अनुष्टुप् ] . . .. समीपे परमात्माऽऽस्ते, विनाध्यास न दृश्यते । अस्ति सूत्रं समीपे ते, विनाऽन्यासं न दृश्यते ॥३९॥ ( पञ्जिका ) परमात्माईन् समीपस्थित एवं वर्तते परन्तु अध्यासं विशदाभासं विना न प्रत्यक्षीभवति । एवमेव तव सूत्रं 'समीपे' वर्तते परम् अभ्यासं मननमन्तरेण न खलु ज्ञायते ॥३९॥ . [ अनुष्टुप् ] राजते मुदिरः कोहा, कीदृग् वर्णेन कजलः । कृनान्तानेहसोमृत्योः, कः शब्दो वद लक्षणम् ॥४॥ . ( पञ्जिका ) . (१) कीडशो वारिदः शोभते ? (२) मषीपुञ्जो वर्णेन कीदृशः
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy