________________
चतुर्थ योगस्थानम्
487
तदेतत् सत्व (त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [1] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन, तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ॥'
न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्मा[2]णहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निमिमीत । स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु[3] का (की) वा [1] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न
युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । 1. cp. कम्मस्सका, माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मप्पटि
सरणा। कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया ति, M. N., III.280 (Culakam mavibhangasutta); for Sanskrit version, see Mahākarmavibhanga; MSS, 1.180; this passage has been quoted in the Asm. (pp. 60-1) also; cp. AK, IV.1-a : . कर्मजं लोकवैचित्र्यं . . . . ; Adv., Vs. 154 : सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् । लोकवैचित्र्यकतणां कर्म हेतुरितीष्यते ॥ see also Vxtti; Sn., Vs. 654: कम्मुना वत्तति लोको कम्मुना वत्तति पजा। कम्मनिबन्धना सत्ता रथस्साणीव यायतो ॥; see Kv, and KVA, XVII.3; VIII,7-8; Milindapaiho, pp. 137-8.