________________
चतुर्थं योगस्थानम्
यति । यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् [3] व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति ।
स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा (चा) रयित्वा ( व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता ( विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवश्च पुन [4]रनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्व्येणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिका : संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । 2 उत्पन्नाश्चानपेक्ष्य विनाशक [T]रणं स्वरसेन विप ( न ) श्यन्ति । 3
1. cp. Bodhi., pp. 188-90; for Pali references, see PD,s.v. anicca, PTSD, s.v. anicca; Asm., pp. 38-40, 41; Adv., pp. 104-7; AKB, II.46: KV, XXII.8.
2. Vide, MSAB, pp. 149-54.
3.
हेतुतः सम्भवो यस्य, स्थितिर्न प्रत्ययैर्विना । विगमः प्रत्ययाभावात् सोऽस्तीत्यवगतः कथम् ॥
485
(Yuktiśastikā, quoted in BCAP, p. 234),
हेतुतः सम्भवो येषां तदभावान सन्ति ते ।
कथं नाम न ते स्पष्टं प्रतिबिम्बिसमा मताः ॥
(Catuhstava,
IV.2, quoted, ibid, p. 273; MKV (V), p. 197).