SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ चतुर्थं योगस्थानम् 483 विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामा[4]नित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [1] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (1) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पंश्यत्येकदा नि ठितपाषाणानि पतित[5] शृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक (ग) नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति' ।] तद्यथा[6] कृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प) स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं । तथा भोजनपानं च एकदा[न]भिसंस्कृता(ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविस रविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति'] । 1. It seems that this was added by a separate hand in the MS., but the ink is rubbed off and it is not traceable in the MS. photo. 2. MS. omits this.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy