________________
478
श्रावकभूमौ नष्क्रम्यभूमिः
विपरिणामानित्यतां पर्येषते। इहानेनात्मनो वा, परेषाम्वा या पूर्व सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र) तिसम्पत्तिा [4]भोगसम्पत्तिा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स् (:) [1] ... तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते)। इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा[i] दृष्ट्वा च पुनरस्यैवं भ[5]वति । अनित्या बत (ते) मे संस्कारा इति पूर्ववदे (त्[1]) ।
(एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु (रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां[6] विपरिणामानित्यताम्पर्येषते ।। .
एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृति पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा,
1. MS. : विपत्तिस्तत्कथमंग. 2. It seems that some portion .is missing in the MS.,
which may be reconstructed as : [तत्कथं परिश्रमकृतां __ विपरिणामानित्यतां पर्येषते। स तथा ]त्मनः . . . 3. पश्यति may be added here.