________________
460
श्रावकभूमौ नष्कम्यभूमिः
तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्ना[7]मसंज्ञास्मृत्यमनसिकारानु(रमनु) चरेति (रति) [1] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञापूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरा[8]गस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते[अ]संज्ञ (ज्ञि) समापत्तिः। एवं च पुनरस्याः प्राप्तिर्भवति ।।
तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण
शान्तेन विहारेण विहर्तुकामः नैव संज्ञानासंज्ञायत138–8// नाच्चित्तमुच्चा//[1]लयति । तच्चित्तमुच्चलितमा
लम्बनं न लभते। अलभमानं निरुध्यते। न प्रवर्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्याहतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥
तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञाना[2]मभिनिर्हारो भवति। कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [1] स तत्परिशुद्धं ध्यानं निश्रित्य यो[अ]नेनाभिज्ञाधिपतये(पतेय[]) धर्म[:]श्रुतो भवत्युद्गृहीतः, पर्याप्तः,