________________
458
श्रावभूमौ नैष्क्रम्यभूमिः
तेनाह । संज्ञी यदुत [TSS] किञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । न पूर्वमा किश्वन्यायतनसमापत्तिकाले [ अ ] किश्वनसंज्ञासमतिक्रान्ता, एतर्ह्य किंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चन[3]संज्ञाया वा, अश्विनसंज्ञा वा, न च पुनः सर्व्वेण सर्व्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि [के ] - वा, निरोधसमापत्तौ वा नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [1] एवं तदायतनाधिमुक्तः ससामन्तक मौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या[4] वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन [] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥
तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । काय संप्रख्यानलिंगं । आरूप्य समापत्तिकाले आका - शात्पतनवत् । तत्र शम [ 5 ]थ ( 11 ) कालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती' असंज्ञा
1. (r) may be dropped.
2. समापत्तिः शुभैकाग्रयम् सानुगा स्कन्धपञ्चकम् ॥, AK, VIII.1; see RAK, p. 221 sq. ; cp. Y. S., I.41 : क्षीणवृत्तेरभिजातस्येव तत्स्थतदञ्जनता समापत्ति:, see Y. B., p. 39 sq.; for different
( contd. on p. 459 )