________________
448
श्रावकभूमौ नष्क्रम्यभूमिः
भिरेव मनस्कारैः। तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते। अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः। द्वितीयध्यानसमापत्तये [1] तत्र ध्यानसमापन्न: । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । य: समाहितभूमिको [5]प्युग्रालम्बनभारी [4] तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्वितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः। एते पुनर्वितर्कविहा (चा) राश्चैतसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुव: संप्रयुक्ता[:]। एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते ।
बाह्यायतनसंगृहीताश्च । [5] सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः। इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कृष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्र[6] कृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते। न शान्तप्रशान्त इत्येवमादिभिराकारैर्वि
तर्केष्वौदारिकलक्षणं प्रतिसंवेदयते । 1. cp. Ada., p. 94; VIII.2; Asm., pp. 68-9.