________________
409
तृतीयं योगस्थानम् पारिशुद्धि, शीलपारिशुद्धिमनुस्मरन् (रं) श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन । ___ तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[] परिशुद्धशीलः। प्रतिबलश्च भाजनभूतश्च । [3]एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतः (सम्यग्गतः) सत्पुरुषः, भव्यो[अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो[अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदय[4]ति । ___अपि च। यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरनुत्तरि च विशेषाधिगममभिश्रद्ध्या[ऽद']धं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनाव[5] स्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु. धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते (त्त) याभ्यां द्वाभ्यां धर्माभ्यां । सर्व्वकृष्णपक्षविमुखं सर्वकृष्ण (शुक्ल ) पक्षाभिमुखं च
1. This may be added; may also be अभिश्रद्दधंश्चित्त.