________________
तृतीयं योगस्थानम्
एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मकेन (ण) । तत्प्रथमकर्मिकेन (ण) योगज्ञ, आचार्यो वा उपाध्यायो वा, पुरुषो, गुरुस्थानी [2] यो वा, वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः । अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भकिंकुश लगवेषिणा । नात्मोद्भावनार्थं । आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति । न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृ [3]त्वा, दक्षिण जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः । अहमस्मि (स्मि ) योगेनार्थी, योगं आदिवानुकम्पामुपादाय ।
तया ।
इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तु