________________
द्वितीयं योगस्थानम्
347
योनिश: (1) शुक्लपक्षाद्विच्छिन्दयति । कृष्णपक्षे च समादापयति । वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तं प्र[5]स्कन्दति । मात्सर्ये महेच्छतायां। असन्तुष्टौ, क्रोधोपनाह (1) कुहनालपनादिषु । - श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगं ॥ ___तत्र चतुभिःकारणः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति। [6]तद्यथा इन्द्रियसमुदागमेन । अनुलोमाववादेन । समाधिदुर्बलतया च । इन्द्रियाणि चेन्न समुदागतानि । आनुलोमिकश्चाववादो भवति । समाधिश्च केवलवान् । एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति । अववादश्च नानुलोमिको भवति । समाधिश्च बलवान् भवति । एवमारम्भो वि[7]फलः । इन्द्रियाणि चेत्समुदागतानि । स अववादश्चानुलोमिको भवति । समाधिश्च दुर्बलो भवत्येवारंभा (वमारम्भो) विफलः। इन्द्रियाणि चेत्समुदागतानि भवन्ति । अ[T]नुलोमिकश्चाववादो भवति । समाधिश्च दुर्बलो भवत्येव[म]रम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादः। समाधिश्च बलवानेवम