SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् तत्र पुण्यसभारो येनाप्येतहि आनुलोमिकाः प्रदक्षिणाः । कल्याण परिष्काराः प्रादुराभवन्ति मित्राणि च प्रतिलभते । अनन्तरायश्च प्रयुक्तस्य भवति । तत्र ज्ञानसंभारः । येन मेधावी भवति, प्रतिबलः । सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [ ।]लाभी भवति । आ [ 2 ] नुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः । तत्र पूर्व्वको येनतहि (हि) प [रि' ] पक्वानीन्द्रि याणि लभते । पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा । कुशलो धर्मछ (च्छ ) न्दः । तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति 337 विस्तरेण पूर्व्ववत् । तत्र प्रसादबहु [ 3 ] लता [] न शास्तरि कांक्षति । न विचिकित्सति । प्रसीदत्यधिमुच्यते । यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्व्ववत् । तत्र मेधा यया आशु धर्ममुद्गृह्णाति । चिरेण धर्ममर्थं च न विस्तारयति । आशु धर्ममर्थं च प्रतिविध्यति । 1. पुण्यसंभार is the term denoting the five Pāramitās except the Prajñāpāramitā, vide MSA, XVIII.38-9. 2. This is the Prajñāpāramitā, vide, MSAB, VI.6, XVI. 19-20; XVIII.38-9. 3. Syllable damaged by pin-hold.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy