________________
द्वितीयं योगस्थानम् . 335 समप्राप्तानि भवन्ति[3] प्रत्ययेषु सत्सु न प्रज्ञायन्ते । तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः। प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति ।
तत्र त्रीण्यावरणानि ।' कर्मावरणं। क्लेशावरणं। विपाकावरणं।
तत्र कर्मावरणं। पञ्चानन्तर्याणि कर्माणि ।' यच्चान्यदपि किंचित्कर्माणि (कर्म)। [4] सं(r)चेतनीयं । गुरुकर्म, विपक्वविपाकं । मार्गोत्पत्तये । निबद्धकारकं । तत्र क्लेशावरणं। तीव्रक्लेशता । आयतक्लेशता च। या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं ।
तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद . उपपत्त्यायतने[1] तत्र वा विपाक[5]मभिनिवर्तयति । यत्र वा आर्यमार्गस्य प्रवृत्तिः। तत्रोपपन्नो जातो
भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति । . सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं । तत्रादि1. cp. Ada., p. 124 (XV.20) : क्लेशः अकुशलकर्म अकुशलकर्मविपाकः ।
इति त्रीण्यावरणानि । पंच आनन्तर्याणि कर्माणि अत्यन्तगुरुक्लेशेभ्यस्त्रिदुर्गतिविपाकेभ्यो भवन्ति । त्रिषु वस्तुषु चेदेकमपि वस्तु न भवत्यार्यधर्मलाभः । इत्युच्यते
आवरणम् ।; cp. AKB, IV.96; SVA, p. 466. 2. cp. AKV, IV.103; see, Vsmt., XIII.90; V.41 : (मातुघातो, पितुघातो, अरहन्तघातो, दुद्वेन चित्तेन तथागतस्स लोहितुपादनं, सङ्घभेदो ति इमानि पञ्च आनन्तरिय कम्मानि)...'; see Patthāna, quoted therein.