________________
332
श्रावभूमौ नैष्क्रम्यभूमिः
वा, पुनः [ 1 ] तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया । तद्यथा निर्व्वस्तुकानां क्लेशानाम [ 2 ] पायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं । त्रयाणां तु संयोजनानां प्रहाणाद्व्यस्थापितं । भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्म्मविन [3]य पक्षे च त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः । यया यमादित एव न प्रयुत्यत इत्यादित उ[त् ] तासिका सत्कायदृष्टिः । दुराख्यातेधर्मविनये शीलव्रतपरामर्शः ः । उच्चलितस्यापि
मिथ्याप्रतिपादयति । येनार्य मार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकि [4] त्सातश्चोच्च लितश्च भवति । न च मिथ्याप्रतिपन्नः । अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति । ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति । मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं || 2
t
1. श्रामण्यफलानि seems to have been omitted in the MS. 2. cp. Adv., p. 144 : स्रोत आपन्नस्यापि निर्मलज्ञानलाभात् । vide also, p. 302 sq.; MKV(V), p. 211; AKV, p. 492; AKB, V.43; Pu. P., p. 215.27 : तिष्णं यंजोजनानं पहानाय पटिपन्नो पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो । यस्स पुग्गलस्स तीणिसंयोजनानि पहीनानि - अयं वुच्चति पुग्गलो 'सोतापन्नो.