SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 330 श्रावकभूमो नष्क्रम्यभूमिः तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः । तत्र सम्यग्वाक्कन्तिाजीवा: चारकरणीये [1] विहारकरणीयं पुनर्द्विविधं । शमथो विपश्यना च [1] तत्र या [5] सम्यग्दृष्टि: । • यश्च सम्यक्संकल्पः। यश्च सम्यग्व्यायाम इयं विपश्यना । तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः। एवं परिशुद्धान् सम्यग्वाक्कन्तिाजीवान्निश्रित्य शमथविपश्यनां भावयति । कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमहत्त्वं, प्राप्नोति ।[6] प्राकर्षिकश्च (कञ्च) भावनामार्गः(ग) [i] कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा . भावनामार्गे व्यवस्थापिताः । इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः,[7] परिचयः । इयमुच्यते बोधिपक्ष्या भावना । 1. cp. Asm., p. 77, para 1; p. 75.4-6. 2. cp. Ada., p. 116 : श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा प्रीतिः प्रश्रब्धिः उपेक्षा संकल्पः शीलं । . . .; for details, see ibid, pp. 116-7 (XIV.14-5); there are seven kramas in the contemplation of the thirty-seven bodhyangas : (contd. on p. 331)
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy