________________
272
श्रावकभूमौ नष्क्रम्यभूमिः
चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं । चोत्पद्यते। कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति । प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपलं कायचित्तदौष्ठुल्यं अविगतं भवति । सदानुषक्तं तत्सम्यङ मार्गभावन[3]या प्रतिप्रश्रम्भयति । ___ तत्राभीक्ष्णप्रत्यवेक्षा। अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते । सुकृतञ्च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद् व्यावर्त्तते । सुकृताच्च कृतान्न प्रत्युदावर्त्तते । तथा क्लेशानां प्रहीणांप्रहीणानां मीमान्सा (मांसा) मनस्कारम[4]धिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेवं मार्ग भावयति । । तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं । द्रष्टव्यं, प्राप्तव्यं । तदजानतो [अ]पश्यतो, नाधिगच्छतः । परितमना उत्पद्यते, चैतसिकः क्लमः । चैतसिकोविघात: । तामुत्पन्नान्नाधिवासयति । प्रजहाति । ___ निरभिमानता । अधिगमे प्राप्तौ । [5] स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्त प्राप्तसंजी, अधिगते अधिगतसंज्ञी[1]इतीमे दश धर्माः शिक्षाकामस्य योगिनः ॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ॥