SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 258 श्रावकभूमौ नष्क्रम्यभूमिः तत्र या पुनर्भवप्रार्थना मा पौनविकी तृष्णा । विषयप्रार्थना पुन[6]द्विविधा [1] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [i] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते । निरोधोपि[7] द्विविधः । क्लेशनिरोधः, उपक्लेशनिरोधश्च । मार्गोपि द्विविधः। शैक्षश्चाशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं । तेनाह चतुविधमालम्बनं । व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ।। तनाववादः' कतमः । चतुर्विधो [अ]ववादः । 1. Asanga enumerates avavāda as the sixth kind of vāda -वादः षड्विधः वादः प्रवादः विवाद: अपवादः अनुवादः अववादश्च, (Asm., p. 104 : श्रुतमयीभूमि, S. Bh. MS. (folio 2B-6, line 4) and defines अववाद as अववादः सत्त्वानां असमाहितचित्तानां चित्तसमाधानाय समाहितचित्तानां विमोक्षलाभाय देशनावादः । (Asm., p. 104) अववादः · · · 'अधिचित्ते अधिप्रज्ञे प्रयोक्तुकामस्य पुद्गलस्यासमाहितस्य वा चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षाय यो वादः तत्त्वज्ञानावबोधाय तत्त्वज्ञानावगमाय वादः [1] तस्मादववाद इत्युच्यते। (श्रुतमयी भूमि, ibid, folio 2A, leaf 7, lines 3-4); in the. Bodhisattvabhūmi, eight kinds of 37997 have been mentioned : अववादः कतमः । समासतोऽष्टविधो वेदितव्यः । यथापि तद् बोधिसत्त्वः (conid. on p. 259)
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy