________________
द्वितीयं योगस्थानम
233
भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते । तेनाह । प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते । स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति । प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (1) आश्वसि[5]मीति शिक्षते । स चेत्पुनर्लाभी भवति । निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [1] स तस्मिन् समये सुखप्रतिसंवेदी भवति । ___ तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं। तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [1] स चेत्कदाचित्कर्ह (हि) चित्स्मृतिसंप्रमो[6]षादुत्पद्यते । अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि । संज्ञी, असंज्ञी। नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता (तम ) भिसंस्कृतं तृष्णागतमुत्पद्यते । य[त्तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति । नाधिवासय [7]ति । प्रजहाति । विनोदयति । व्यन्ती
करोति । एवं चित्तसंस्कारप्रतिसंवेदी' प्रश्रभ्य चित्त1. MS. is incorrect here. The correct form seems to be प्रश्रभ्य चित्तसंस्कारानाश्वसन्प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते, the portion in the square brackets hereafter has been added by a separate hạnd in a very dim and illegible footnote,