________________
230
श्रावकभूमौ नष्क्रम्यभूमिः
आश्वसन्) स्मृत आश्वसिमीति शिक्षते । स्मृतः प्रश्वसन प्रश्वसिमीति शिक्षते । दीर्घ ह्रस्वं सर्वकायप्रतिसम्वेदी। आश्वसन् सर्वकायप्रतिसंवेदी। आश्वसिमीति शिक्ष[5]ते। सर्वकायप्रतिसंवेदी प्रश्वसन् । सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते। प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते। चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चि[6]त्तसंस्कारानाश्वसन, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य चित्त
(contd. from p. 229)
LIII.8-23 : ह्रस्वमाश्वसन ह्रस्वमाश्वसिमीति यथाभूतं प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसामीति यथाभूतं प्रजानाति । दीर्घमाश्वसन् दीर्घमाश्वसामीति यथाभूतं प्रजानाति । सर्वकायप्रतिसंवेद्याश्वसन् सर्वकायप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । सर्वकायप्रतिसंवेदी प्रश्वसन् सर्वकायप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति । प्रस्रभ्य कायसंस्कारानाश्वसन् प्रसभ्य कायसंस्कारानाश्वसामीति यथाभूतं प्रजानाति । प्रस्रभ्य कायसंस्कारां प्रश्वसन् प्रश्रभ्य कायसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति । प्रीतिप्रतिसंवेद्याश्वसन्प्रीतिप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । प्रीतिप्रतिसंवेदी प्रश्वसन् प्रीतिप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति । · चित्तसंस्कारप्रतिसंवेद्याश्वसन् चित्तसंस्कारप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । चित्तसंस्कारप्रतिसंवेदी प्रश्वसन् चित्तसंस्कारप्रतिसंवेदी प्रश्नसामीति यथाभूतं प्रजानाति । प्रश्रभ्य चित्तप्रतिसंस्कारानाश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसामीति यथाभूतं प्रजानाति । प्रश्रभ्य चित्तसंस्कारां प्रश्वसन् प्रश्रभ्य चित्तसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति । चित्तप्रतिसंवेद्याश्वसन् चित्तप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । चित्तप्रतिसंवेदी प्रश्वसन् चित्तप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति ।