________________
192
श्रावकभूमौ नैष्क्रम्यभूमिः
तनि[4]रोधमनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । ___ कथमुपपत्तिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, अ[5]वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति। ___ कथमपरिहाणिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्याहंतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं ॥ अकोप्यधर्मकस्याहतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [1]एव[6]मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति ।
तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्याहंतः । तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्तु । अर्हन् क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त[7] इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ।
तत्रालम्बनं कतमत्' । आह [1] चत्वार्यार्यालम्बन1. cp. Asm., p. 80 : धर्मे आलम्बनप्रभेद: कतमः । संक्षेपेण चतुर्विध
आख्यातः । व्याप्यालम्बनं चरितविशोधनालम्बनं कौशल्यालम्बनं क्लेशविशोधनालम्बनं च।