________________
190
श्रावकभूमो नष्क्रम्यभूमिः
व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते। एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः ।
तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः। नो तु गोत्रसंभारो, गोत्रव्यतिकरः । अस्मिस्त्वर्थे श्रावकयानप्रणिधाना[:]श्रावकगोत्राश्च[7]ते पुद्गला वेदितव्याः ॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ ___ कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिनिर्याणं भवति । कतमाभिश्चतसृभिः [1] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा । [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा'] । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति [7]प्रतिपत्सुखा क्षिप्राभिज्ञा ॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दु:खा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा। तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा। तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौ[8] लध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा ।। एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं ।।
तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं
1. MS. omits this.