SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 172 श्रावकभूमौ नष्क्रम्यभूमिः आदीनवतो दृष्टाः। विदूषिताः, सन्तीरिता: [1] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति । नाप्यायतरागः । न चास्य समुदाचरति रागो, यदुत तेन वस्तु[4]ना[1] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः । मन्दरजस्क: पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग . आसेवितो भवति, बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति । विदूषितः सन्तीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये व[5]स्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद (उल्ब) णे रज्यं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो, मोहो, मानो, वितर्का (कर्को), वेदितव्याः (व्यः) । अयमुच्यते मन्दरजस्कः पुद्गलः ॥ प्रतिपन्नकः पुद्गलः [6] कतमः [1] आह । प्रतिपन्नका: पुद्गलाश्चत्वारः । तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः । सकृदागामिफलप्रतिपन्नकः । अनागामिफलप्रतिपन्नकः । अर्हत्त्वफलप्रतिपन्नकः । अयमुच्यते 1. MS. omits this; this has been improvised by us and presumed on the basis of a uniform pattern of the preceding description,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy