________________
नष्क्रम्यभूमिः . 163 बालः, कर्मलक्षणः पण्डितः। यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति। दुर्भाषितभाषी, दुष्कृतकर्मकारी, [3] पण्डितः पुनः सुचिन्तितचिन्ती भवति । सुभाषितभाषी, सुकृतकर्मकारी [i] एवं पण्डितलिंगसमन्वागतो भवति । ___ कथं क्षमो भवति। आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति । शीतस्योष्णस्य जिघत्साया[:], पिपा[4]सायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां (णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां । शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति।
कथं (सू) सुरतो भवति । यथापि तन्मत्रेण काय. कर्मणा समन्वागतो भवति । मैत्रेण वाक्कमणा, [5]मत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च । भवत्यप्रतिगुप्तभोजी । लाभर्धाम्मिकैर्धर्मप्रतिलब्धः, पात्रगतः, पात्रपर्यापन्नः शीलसामान्यगतश्च भवति । दृष्टिसामान्य[6]गतश्च । स एभिः षड्भिः संरजनीयधर्में: (संरंजनीयर्धमः) समन्वागतः प्रियकरणैर्गुरुकरगर्थवादकरणः सुखसंवास्यो भवति। अविहेठनजा