________________
'नष्क्रम्यभूमिः
वस्तु, धान्यवस्तु । देश वस्तु ।
तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा (ला) श्मगर्त्त पुसा र गण्वज [T]तरूपरजतलोहितिदक्षिणावर्त मिति । यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, व[5]स्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं ।
धान्यं कतमत् । यत्किञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा कोला वा, कुलत्था वा, तिला वा, भाषा वा, इक्षुरसम्वा ( सो वा), मृद्वीकारसम्वा (सो वा ), इति यद्वा पुनरप्येवंभागीय[ 6 ]मिदमुच्यते धान्यं ॥
देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु, गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु ।
तत्र यच्च सत्व ( सत्त्व) संख्यातम्वस्तु इदं ददाति ॥
केन ददतीति । याच अलोभसह [ 7 ] गता चेतना, चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म । वाक्कर्म दे [श' ] वस्तुपरित्यागाय स्वसंताने वा [ । ] अनेन ददाति ।
1. This is a kind of शङ्ख.
2, A separate hand adds this,
153