________________
146
श्रावकभूमौ नैष्क्रम्यभूमिः
रतो भवति । तेषु तेष्वि[3]तिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबल: सन् । प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन (ण) संतुष्टो निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति । संगणिकारामो भवति साधू गृ[4]हस्थप्रवजितः । राजकथाम्वा करोति । चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [1] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभि र (म') तो भवत्यभी[5]क्ष्णेण (न) गणसन्निपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति । व्याकुलमानसः । संसर्गारामो भवति । गृहस्थप्रवजितानामसमवहितानां च वियोगं गच्छति । प्रपंचारामो भवति । प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः । इदमेवंभागीयो (इम एवं भागीया) [6]धर्माः प्रविवेकान्तरायो वेदितव्यः । यः समवहितः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि
प्रान्तानि शयनासनान्यध्यावसितुं । अरण्यानि वा वृक्ष1. This may be deleted. 2. On प्रपञ्च, cp. MKV(V), p. 150 : · · ·अनादिमत्संसाराभ्यस्ता
ज्ञानज्ञेयवाच्य-वाचक-कर्तृ-कर्म-करण-क्रिया-घट-पट-मुकुट-रथ-रूप-वेदना-स्त्री-पुरुषलाभाऽलाभ-सुख-दुःख-यशोऽयशो-निन्दा-प्रशंसादिलक्षणात् विचित्रात् प्रपञ्चात् ।