________________
नष्क्रम्यभूमिः
. .
131
निदानं भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा[1] एवं विशारदो भवति। .
कथं वाक्करणेनोपेतो भवति। पौर्या (यया)वाचा[3] समन्वागतो भवति । वल्गून्यविस्प (वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ) पर्याप्तया [i] एवम्वाक्करणेनोपेतो भवति । कल्याणवादी।
स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति । स्मारकः, अववादकः, अनुशासको, धर्मदेशक: [1]
कथं चोदको भवति। यदुताधिशीले च शीलविप[4] त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति । भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना (न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [1] एवं चोदको भवति ।
कथं स्मारको भवति। आपत्तिम्वा स्मारयति । धर्म चा (वा)र्थम्वा [1] . .
कथमापत्ति स्मारयति । यथापि तदापत्ति[5] मध्यापद्यमानः स्मरति । तमेनं स्मारयति ।
आयुष्मन्नमुष्मिन्देशे, अमुष्मिन् वस्तुनि, अमुष्मिन् 1. cf. Bodhi., pp. 164, 78, 79.