________________
122
श्रावकभूमौ नष्क्रम्यभूमिः
क्रीडारतिमंडनयोग[3]मनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [i] तथा चोपसंक्रमितव्यानि यथोप संक्रमन्नहन्न भ्रान्तेन हस्तिना साधू समागच्छेयं, न भ्रान्तेन स्थेन, पुन: चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाट वा मर्देयं । न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं । न स्यन्दिका[4]यां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं । . ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः, अनन्योत्कर्षी, अपरपंसकः । अनुकम्पाचित्तो, द[5]याचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [1] उपसंक्रम्य च मे[मया]प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया। लपना, नैमित्तिकता, नष्पेषिकता, लाभेन लाभनिश्चिकीर्षता कर[6]णीया (:)। स च लाभ: अरक्तेन परिभोक्तव्य[:], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन[1]यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति । तान्येकत्यानि
द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्त6B–8// चक्षुषा भवितव्यं । सुसंहृतेन्द्रियेण, यानि पुन//[1]