________________
120
श्रावकभूमौ नष्क्रम्यभूमिः
समाधत्ते [1] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः। ___ यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते । श्रान्तो वा भवति । क्लान्तस्योत्पद्यते। अकाले निद्राक्ल[3]म: स्वपितुकामतः (ता)। अयमुच्यते निद्राक्लमः । ___स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं । तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लम: प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यं । यावद्यथा निद्राक्लमः । प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । [4]यथा च गन्तव्यं भवति । यत्र (यथा) च यावन्निद्राक्लमः । प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [1] ___ स तेन संप्रजन्येन समन्वागतः । गच्छन् यावन्निद्राक्लमः (म) प्रतिविनोदयन् स चेज्जानाति । (गच्छामि) गच्छामि यावत् (न्) निद्राक्लमं प्रतिविनोदयामि । यत्र च गन्तव्यं भवति । यत्र च [5]यावन्निद्राक्लम: प्रतिविनोदयितव्यो भवति । तदा गच्छति । तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति । यथा यावन्निद्राक्लमः । प्रतिविनोदयितव्यो भवति । तथा गच्छति । तथा