SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 118 . श्रावकभूमौ नष्क्रम्यभूमिः तदश्नाति यावत्स्वादयति । यदा चाशितव्यं [याव']त्स्वादयितव्यं । तदा अश्नाति, स्वादयति । यथा चाशितव्यं [2]यावत्स्वादयितव्यं तथा [अ]श्नाति । यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता। यदुताशितपीतखादितास्वादिते[७] [1] तत्र कतमद्गतं, कतमत् स्थितं, कतमनिषण्णं । कतमच्छयितं । कतमज्जागृतं। कतमद्भाषितं, कतमत्तू (मस्तू)ष्णीम्भावः। कतमा निद्राक्लमप्रतिविनोदना। कतमा गते, स्थिते, निषण्णे शयिते, जागृते, [3]भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना [यां] संप्रजानविहारिता। यथापीहैकत्यश्चंक्रमे चंक्रम्यते (मते), सहधर्मिकाणां चोपसंक्रामति । अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतं । यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति । आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां [4]इदमुच्यते स्थितं । यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा। पर्यङ्कमाभुज्य, ऋजु कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते । निषण्णं । यथापी1. Letters damaged by pin-hold. 2. Omitted in the MS., supplied by us, 3. A separate hand adds this,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy