________________
116
श्रावकभूमौ नष्क्रम्यभूमिः
तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्ठानानि कमा (1)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते । पात्रं, तस्य परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । । ___ स चेत्पुनरयं तां सां (सं)घाटी, चीवरं, [3]पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च सां (सं)घाटीचीवरपात्रधारणं । कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति । यदा च सां (सं) घाटीचीवरपात्रधारणं धारयितव्यं (कर्तव्यं)। तदा सम्यगेव प्रजानाति । यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते । संप्रजन्यं । स तेन संप्रजन्येन स[4]मन्वागतः । सचेत् सां (सं) घाटी(टी), चीवरं, पात्रं धारयमाणो जानाति धारयामीति । यच्च धारयितव्यं तद्धारयति । यदा च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता। यदुत सां(सं)घाटीचीवरपात्रधारणे ।
तत्र कतमदशितं । कतमत्पीतं । कतमत् खादितं । कतम[5]त्स्वादितं । कतमा अशितपीतखादितास्वादिते [७]संप्रजानद्विहारिता। यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते। तस्य पुनद्विधा भेदः खादितं; स्वादितं च। तत्र खावितं । मन्था