________________
श्रावकभूमो नष्क्रम्यभूमिः
निश्चि[त्य'] (निश्रित्य) ब्रह्मचर्य (1) समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, [5] त एव च पुनः परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । तन्मे प्रतिमं स्याद् यद (द्) वा प्रत्यवरेण आहारानुशन्स (शंस) मात्रकेण संतुष्टो विहरेयं । न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे
साकारं परिपूर्णमादीनवं ज्ञात्वा · स 5B-8|| इतः प्रतिसंख्याया[ss]दीनव !![1] दर्शी, निःसर
णान्वेषी चाहारनिःसरणार्थमेव पुत्रमा (मान्) सो धर्ममाहारमाहरति ।
तस्यैवं भवति । एवमेते दायकदानपतयः कृच्छ्ण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति । य[एते][अ] नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं [2] तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो[अ]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (1) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला[:] स्युर्महानुशंसा, महाद्युभ (त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य
चित्तं, ह्रीमानप्रगल्भः, अनात्मोत्कर्षी, [3]अपर1. Letters damaged by pin-hold. 2. Syllables damaged by pin-hold.