________________
72
श्रावकभूमौ नैष्क्रम्यभूमिः
व्यंजनग्राही यतो ] अ ] धिकरणमेव पापका अकुशला धर्माश्चित्तम [4] नुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण । संम्वरमापद्यते । इत्येवं संवृणोति ।
का पुनः संवृतिः । यतः स्मृत्या [ऽऽ]रक्षितमानसो भवति । समावस्थावचारकः । इयमुच्यते संवृतिः ।
पुनरपरः समासार्थः [1] यश्चसम्वरोपायः । यच्च सम्वरणीयम्वस्तु, या च संवृतिः । तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते ।
[5] तत्र कतमः सम्वरोवा ( संवरोपायः ) [ 1 ] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही । यतो [ अ ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण सम्वरमाप [ 6 ] द्यते । अयमुच्यते सम्वरोपायः ।
सम्वरणीयं वस्तु कतमत् [1] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु ।
तत्र संवृतिः कतमा [1] यदाह । स्मृत्यारक्षितमानसो भवति । समावस्थावचारक इतीयमुच्यते संवृतिः ।
स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः ।