________________
60
श्रावभूमी : नैष्क्रम्यभूमिः
1B-7 // प्रत्यवेक्षमाणः अविप्रति // [1][ सारं प्र'] तिलभते । अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिजयते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकाय: सुखं वेदयते । सुखितस्य चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निविद्यते[ ]निव्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति [:] स्मृतिर्ज्ञा( विमुक्तिज्ञा ) नदर्शनं [2] भवति । यावन्निरुपधिशेषे निर्व्वाणधातौ परिनिर्व्वाति । यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धधियतेयमविप्रतिसारं प्रतिलभते । अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्स: ( शंसः) । पुनरपरं शीलवां ( वान् ) पुरुषपुद्गलः मरण कालसमये प्रत्युपस्थिते, कृतं एतन्मे सूक्तं त [...] ( सुचरितं ) कायेन वाचा मनसा न कृतं एत [3]न्मे दुश्चरितं कायेन पूर्व्ववत् । इति या गतिः । कृतपुण्यानां कृतकुशलानां कृतभयभीरुप्राणानां तां गति प्रेत्यं गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (1) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति । भद्रिका कालक्रिया भद्रको [ अ ] भिसम्परायः । अयं द्वितीय: शीलानुशन्स: ( शंसः) ॥
पुनरपरं [4] शीलवत: पुरुषपुद्गलस्य कल्याणो
1. MS. leaf brittled and torn, text reconstructed by us.