________________
श्रावकभूमौ नष्क्रम्यभूमिः
भिक्षुसम्वरमधिष्ठायाह[4]प्रतिमोक्षसम्वरसंवृतः ।' - कथमाचारसम्पन्नो भवति । यथापि तदीर्यापथमितिकरणीय (यं)वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुत्तिना, लोकानुत्क्रान्तेन, विनयानुवतिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति । ___ तत्र ईर्यापयाधिष्ठान आचारः। कथं न लोकानु(को)त्क्रान्तो[न] विन[5]योत्क्रान्तः . [] यथापि तद्यत्र चंक्रमितव्यं । यथा चंक्रमितव्यं [1] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकहितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति । [अ]गर्झस्थानीयः । यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या।
तत्र इतिकरणी[6]य आचारः। कथं न . लोकोत्क्रान्तो भवति । न विनयोत्क्रान्त इति करणीयमुच्यते । चीवराच्छादनं । उच्चारवस्रावं । उदकदन्तकाष्ठं। ग्रामप्रवेशः । पिण्डपातनिहरिपरिभोगः । पात्रनिर्माद (ज)नं स्थापनं च। पादप्रक्षालनं च । शयनासनप्रज्ञप्तिः। तस्यैव चाभिसंक्षेपः पात्रक[7]र्म चीवरकर्म इति । यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते। तच्च यथायोगं यत्र
कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति । I. See p. 30, f.n. 2.