________________
36
श्रावकभूमौ नष्क्रम्यभूमिः
वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः ।
लोकोत्तरेण मार्गेण वैराग्य[4]गमनं कतमत् । यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति । समुदयम्वा समदयतः । निरोधम्वा निरोधतः । मार्गम्वा मार्गतः । शैक्षेण ज्ञानदर्शनेन समन्वागतः । ततश्चोत्तरि मार्ग भावयंस्त्रधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्यो [5] धर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ वैधातुकसमतिक्रान्तो भवति । इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ॥
तत्र सम्भारः कतमः । तद्यथा आत्मस्वपरसम्पत्(आत्मसम्पत्) । परसम्पत्, कुशलः (लो) धर्म [च्] छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्त[6] ता, संप्रजानद्विहारिता, कल्याण
(contd. from p. 35)
चतुर्थं ध्यानमाकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैव संज्ञानासंज्ञायतनं च ॥ त एते ध्यानारूप्याः संक्लेशव्यवदानव्यवस्थानविशुद्धिभिर्वेदितव्याः, Asm., p. 68; see also p. 69 for details; cp. Ada, p. 86
(X.17): लौकिकमार्गेणापि हातुं शक्यन्ते ऊर्ध्व धातुप्रतिसंयुक्तानि संयोजनानि ॥ 1. cp. Asm., p. 69 : भावनामार्गे दुःखसमुदयनिरोधमार्गज्ञानानि धर्मज्ञानान्वय
पक्ष्याणि तैश्च संप्रयुक्तः समाधिः प्रथमं वा ध्यानं यावदाकिञ्चन्यायतनं नवसंज्ञानासंज्ञायतनं लौकिकमेव अपरिस्फुटं संज्ञाप्रचारतामुपादाय । ततश्चानिमित्तमित्युच्यते ॥ यथोक्तं भगवता यावदेव संज्ञासमापत्तिः तावदाज्ञाप्रतिवेध इति । निरोधसमापत्तिर्लोकोत्तरा मनुष्येष्वभिनिह्रियते। मनुष्येष्वभिनिहता मनुष्येषु रूपधातौ वा संमुखीक्रियते । आरूप्येष्वस्याः संमुखीभावो नास्ति । शान्तविमोक्षविपाकविहारिणां तद्यत्नानारम्भतामुपादाय ॥; cp. Ada, p. 86 (X.17):
लोकोत्तरमार्गेण प्रहीयन्ते कामधातुरूप्रारूप्यधातुप्रतिसंयुक्तसर्वसंयोजनानि ॥ 2. Wayman adds here इन्द्रियसम्बरो.