________________
अवतारभूमि:
31
न च
पुनरप रमवतीर्णः पुद्गलः मन्दरज [ स्क' ] जातीयो भवति । मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति । पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा [1] इ [3] दं
सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥
पुनरपरमवतीर्णः पुद्गलोऽसंलीनचित्तो भवत्युद
Roofधगम्येषु स्थानेषु नात्मानम्परिभवति । नाप्रतिबलतायामवतरति । अधिमुक्तिबहुलो इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ।।
भवति ।
इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गला[4]नां लिङ्गानि वेदितव्यानि ।। येषामेतत् प्रदेशमात्रमाख्यातं ।।
1. Added by us.
पुनरेतानि लिङ्गानि मृदुकुशल मूल स्थस्यावतीर्णस्य मृदूनि भवन्ति । सछि (च्छि ) द्राण्यनिरन्तराणि अपरिशुद्धानि [1] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्णस्य पु [ 5 ] द्गलस्य लिङ्गानि । यै लिंगैः समन्वागत [ : ] अवतीर्ण इति संख्यां गच्छति । अपि पुनरेतानि गोवस्थानामवतीर्णानाञ्च पुद्गलानां आनुमानिकानि लिङ्गानि वेदितव्यानि । बुद्धा एव तु भगवन्तः परमपारमि [ता ] - प्राप्ताश्च श्रावकास्तायिनः । तत्र प्रत्यक्षदर्शिनः ।