________________
श्रावकभूमौ गोत्रभूमिः
जीवति, तिष्ठति च, परिनिर्वृते च बुद्ध भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्धर्मश्च नान्तर्धीयते [1] इदमुच्यते सद्धर्मस्यावस्थानं याव[' [2] वस्थानं वेदितव्यं] [1]
अवस्थितानां धर्माणामनुप्रवर्तनं कतमत् । यत्त एवाधिगन्तार[:] सद्धर्मस्य, सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्तनं ।।
परतः प्रत्यनुकम्पा कतमा । परत उच्यन्ते दा[3]यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितोपधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिंडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा ।।
कुशलो धर्मच्छन्दः कतमः [1] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्धर्म श्रुत्वा श्रद्धां प्रतिलभते । स तां[4]प्रतिलभ्य इदं संशिक्षते। संबाधो गृहावासो रजसामावासः । अभ्यवकाशं प्रव्रज्य यन्व (यन्व)हं सर्व कड (ल) त्रवर्ग, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनाग [7]रिका प्रव्रजेयम् । प्रवजित्वा
1. MS. broken and damaged, the missing text may be
restored as : याव[द् बुद्धः सद्धर्मदेशनादेशितानां धर्माणाम].