________________
श्रावभूमौ गोत्रभूमिः
इन्द्रियैरविकलता कतमा [1] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [1] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [1] इदमुच्यते इन्द्रिया [3] वैकल्यं [1]
आयतनगतः प्रसादः कतमः [1] यथापी हैकत्येन तथागतप्रवेदिते धर्म्मविनये श्रद्धा प्रतिलब्धा भवति । चेतसः प्रसादः [।] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्व्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [1] या पुनरत्न श्रद्धा, तेन पूर्वंग [4] मेनाधिपत्येन स आयतनगतः प्रसाद: [1]
सर्व्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्म्मणां, तद्यथा मातृवधात् पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके 'दुष्टचित्त रुचि रोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमिय [ 5 ] मुच्यते । अपरिवृत्तकर्मान्तता । इतीमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि [1] दृष्ट एव धर्मे परिवर्त्यभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्तितेत्युच्यते । स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गः सम्पादितो भवति । तस्मादात्मसम्पदि [6] त्युच्यते ।