SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ भीरतरङ्गिण्याः प्रस्तुतं संस्करणम् अस्माभिः पण्डितरामशङ्करभट्टाचार्यस्य साहाय्येन क्षीरस्वामि विरचितायाः क्षीरतरङ्गिण्याः प्रथम संस्करणं २०१४ तमे वैक्रमाब्दे (=१६५७तमे कैस्तवाब्दे) प्राकाशि। तत्संस्करणं पञ्चदशवर्षेभ्यो दुर्लभमभूत् । पूनानगरस्थे भण्डारकरशोधप्रतिष्ठाने क्षीरतरङ्गिण्या द्वौ शारदालिप्यां लिखितौ प्राचीनतमौ हस्तलेखौ स्तः । तयोः साहाय्येनास्य ग्रन्थस्य पुनः संपादनस्य मनीषाऽऽसीत्, परन्तु प्रयत्ने कृतेऽपि शारदालिपिज्ञस्य देवनागरी लिप्यां प्रतिलिपिकर्तुरनुपलम्भात् पूर्वसंस्करणस्यैव संम्प्रति पुनः प्रकाशनं क्रियते ।। ययप्यस्य ग्रन्थस्य पुनः सम्पादनस्यास्ति महत्यपेक्षेत्यहमनुभवा मि, तथापि चिरकालिकैरनेकैः क्षेत्रिय रोगैः क्षीणस्वास्थ्योऽहं तावत् परिश्रम कर्तुं न समर्थो यावदत्रास्त्यपेक्षितः । पुनरपि यथासामर्थ्य भूयो निरीक्ष्य प्रकाश्यते । अत्र पूर्व संस्करणे विद्यमाना अशुद्धयः संशोधिताः, उपपञ्चाशच्च नूतनाष्टिप्पण्यः संवर्धिताः। एका त्रुटि:-हिन्दीभाषायां दीर्घ ऋकारो तदीया मात्रा च न प्रयुज्यते । अतः सामान्येन देवनागरीमुद्रणाक्षरनिर्मातारो दीर्घस्यर्कारस्थ मात्रां न निर्मान्ति । सूक्ष्माक्षरेषु (ह्वाइट मोनो) दीर्घस्यर्कारस्य या मात्रः समुपलब्धासैवेह यत्र यंत्र दीर्घर्कारस्य मात्राया प्रयोग आसीत प्रयुक्ताः, परन्त्वियं मात्रा ऽत्यन्तं सूक्ष्मा सामान्येनादृश्येव । मन्येऽनेन पाठका प्रायेण भ्रान्ता भविष्यन्ति, परन्त्वन्यत् साधनमपि नासीत् । ___ अपरा त्रुटि:-क्षीरतरङ्गिण्यां यत्र तत्र धातुव्याख्याने सैव धातुः पुरस्तादुपरिष्टाद्वा पुनः पठ्यते, तस्य निर्देशो ग्रन्थकारः प्रायेण सर्वत्र विदधाति । पूर्वसंस्करणे एतादृशस्थाननिर्देशाय प्रयुक्ता धातुसूत्रसंख्या यत्र तत्रा शुद्धा आसन्, विशेषतो यत्रोत्तरगणस्थानां धातूनां निर्देश प्रासीत् । अस्मिन् संस्करणेऽष्टचत्वारिंशत् पृष्ठपर्यन्तं पूर्वसंस्करणानुरूपमेवोत्तरधातुसूत्रसंख्या मुद्रिताः, तासु यत्र क्वचिदशुद्धं मुद्रणमजायत, तस्य संशोधनमन्ते शुद्धिपत्रे कृतम् । अव या अन्या अप्यशुद्धयो मुद्रणकाले भुद्रणपत्रनिरीक्षणे दृष्टिदोषादजायन्त, तासामपि संशोधनं तत्रैव प्रदर्शितम् । पाठकान् प्रार्थयेऽहं यत्संशोधनपत्रानुसार पूर्व संगोध्य तदनुपठनीयम् । युधिष्ठिरो मीमांसकः
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy